|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.113. अध्यायः 113
Mahabharata - Bhishma Parva - Chapter Topics
भीमसेनपराक्रमवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-113-0x(4230)(43990)
भगदत्तः कृपः शल्यः कृतवर्ता तथैव च।
विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः ॥ 6-113-1(43991)
चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा।
दशैते तावका योधा भीमसेनमयोधयन् ॥ 6-113-2(43992)
महत्या सेनया युक्ता नानादेशसमुत्थया ।
भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः ॥ 6-113-3(43993)
शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् ।
कृतवर्मा त्रिभिर्भाणैः कृपश्च नवभिः शरैः ॥ 6-113-4(43994)
चित्रसेनो विकर्णश्च भगदत्तश्च मारिष ।
दशभिर्दशभिर्बाणैर्भीमसेनमताडयन् ॥ 6-113-5(43995)
सैन्धवश्च त्रिभिर्बाणैर्भीमसेनमडायत् ।
विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः ॥ 6-113-6(43996)
दुर्मर्षणस्तु विंशत्या पाण्डवं निशितैः शरैः।
स तान्सर्वान्महाराज राजमानान्पृथक्पृथक् ॥ 6-113-7(43997)
प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् ।
जघान समरे वीरः पाण्डवः परवीरहा ॥ 6-113-8(43998)
सप्तभिः शल्यमाविध्यत्कृतवर्माणमष्टभिः ।
कृपस्य सशरं चापं मध्ये चिच्छेद भारत ॥ 6-113-9(43999)
अथैनं च्छिन्नधन्वानं पुनर्विव्याध सप्तभिः ।
विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत् ॥ 6-113-10(44000)
दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः ।
विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम् ॥ 6-113-11(44001)
विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः ।
अथान्यद्धनुरादाय गौतमो रथिनां वरः ॥ 6-113-12(44002)
भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः।
स विद्धो दशभिर्बाणैस्तोत्रैरिव महाद्विपः ॥ 6-113-13(44003)
ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् ।
गौतमं ताडयामास शरैर्बहुभिराहवे ॥ 6-113-14(44004)
सैन्धवस्य तथाऽश्वांश्च सारथिं च त्रिभिः शरैः ।
प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः ॥ 6-113-15(44005)
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।
शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे ॥ 6-113-16(44006)
तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद मारिष ।
भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः ॥ 6-113-17(44007)
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
चित्रसेनरथं राजन्नारुरोह त्वरान्वितः ॥ 6-113-18(44008)
अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः ।
महारथाञ्शरैर्विद्ध्वा वारयित्वा च मारिष ॥ 6-113-19(44009)
विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः ।
तदा न ममृषे शल्यो भीमसेस्य विक्रमम् ॥ 6-113-20(44010)
स संधाय शरांस्तीक्ष्णान्करमारपरिमार्जितान् ।
भीमं विव्याध समरे तिष्ठितिष्ठेति चाब्रवीत् ॥ 6-113-21(44011)
कृपश्च कृतवर्माच भगदत्तश्च वीर्यवान् ।
विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे ॥ 6-113-22(44012)
दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान्।
भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिन्दमाः ॥ 6-113-23(44013)
स च तान्प्रति विव्याध पञ्चभिः पञ्चभिः शरैःक ।
शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः ॥ 6-113-24(44014)
तं शल्यो नवभिर्भित्त्वा पुनर्विव्याध पञ्चभिः ।
सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि ॥ 6-113-25(44015)
विशोकं प्रेक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् ।
मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरुसि चार्पयत् ॥ 6-113-26(44016)
तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः ।
ताजयामास समरे सिंहवाद्विननाद च ॥ 6-113-27(44017)
ते हि यत्ता महेष्वासाः पाण्डवं युद्धकोविदम् ।
त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् ॥ 6-113-28(44018)
सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे ।
पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः ॥ 6-113-29(44019)
स तु क्रोधसमाविष्टः पाण्डवानां महारथः ।
मद्रेश्वरं त्रिभिर्बाणैर्भृशं विद्ध्वा महायशाः ॥ 6-113-30(44020)
कृपं च नवभिर्बाणैर्भृशं विद्ध्वा समन्ततः ।
प्रग्ज्योतिषं शतैराजौ राजन्विव्याध सायकैः ॥ 6-113-31(44021)
ततस्तु सशरं चापं सात्वतस्य महात्मनः ।
क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् ॥ 6-113-32(44022)
तथान्यद्धनुरादाय कृतवर्मा वृकोदरम् ।
आजघान भ्रुवोर्मध्ये नाराचेन परंतपः ॥ 6-113-33(44023)
भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः ।
भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः ॥ 6-113-34(44024)
द्वाभ्यां द्वाभ्यां तु विव्याध गौतमप्रभृतीन्रथान् ।
तेऽपि तं समरे राजन्विव्यधुर्निशितैः शरैः ॥ 6-113-35(44025)
स तथा पीड्यमानोऽपि सर्वशस्त्रैर्महारथैः ।
मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः ॥ 6-113-36(44026)
ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् ।
प्रेषयामासुरव्याग्राः शतशोऽथ सहस्रशः ॥ 6-113-37(44027)
तस्य शक्तिं महावेगां भगदत्तो महारथः।
चिक्षेप समरे वीरः स्वर्णदण्डां महमते ॥ 6-113-38(44028)
तोमरं सैन्धवो राजा पट्टसं च महाभुजः ।
शतघ्नीं च कृपो राजञ्छरं शल्यश्च संयुगे ॥ 6-113-39(44029)
अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् ।
भीमसेनं समुद्दिश्य प्रेषयमासुरोजसा ॥ 6-113-40(44030)
तोमरं च द्विधा चक्रे क्षुरप्रेणानिलात्मजः ।
पट्टसं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् ॥ 6-113-41(44031)
स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः ।
मद्रराजप्रयुक्तं च शरं छित्त्वा महारथः ॥ 6-113-42(44032)
शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे।
तथेतराञ्शरान्घोराञ्शरैः सन्नतपर्वभिः ॥ 6-113-43(44033)
भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत्।
तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् ॥ 6-113-44(44034)
ततो धनञ्जयस्तत्र वर्तमाने महारणे ।
आजगाम रथेनाजौ भीमं दृष्ट्वा महारथम् ॥ 6-113-45(44035)
निघ्नन्तं समरे शत्रून्योधयानं च सायकैः ।
तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ ॥ 6-113-46(44036)
न शशंसुर्जयं तत्र तावकाः पुरुषर्षभाः ।
अथार्जुनो रणे भीमं योधयन्तं महारथान् ॥ 6-113-47(44037)
भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम्।
आससाद रणे वीरांस्तावकान्दश भारत ॥ 6-113-48(44038)
ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः।
बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया ॥ 6-113-49(44039)
ततो दुर्योधनो राजा सुशर्माणमचोदयत् ।
अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः ॥ 6-113-50(44040)
सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः ।
जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ ॥ 6-113-51(44041)
तच्छ्रुत्वा वचनं तस्य त्रैगर्तः प्रस्थलाधिपः ।
अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ ॥ 6-113-52(44042)
रथैरनेकसाहस्रैः समन्तात्पर्यवारयत् ।
ततः प्रववृते युद्धमर्जुनस्य परैः सह ॥ ॥ 6-113-53(44043)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे त्रयोदशाधिकशततमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-113-21 कर्मारं शस्त्रोल्लेखनयन्त्रम् ॥ 6-113-32 सात्वतस्य कृतवर्मणः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|